Class 1 Class 2 Class 3 Class 4 Class 5 Class 6 Class 7 Class 8

Sanskrit Class 9 Chapter 6 Question Answer Sharada मनःपूतं समाचरेत्

← Back to Class 9 Sanskrit Sharada

Sanskrit Class 9 Chapter 6 Question Answer – मनःपूतं समाचरेत् में विद्यार्थियों को शुद्ध आचरण, सद्विचार और उचित व्यवहार का महत्त्व समझाया गया है। यह पाठ हमें सिखाता है कि मनुष्य को किसी भी कार्य को करने से पहले अपने मन, विचार और विवेक की शुद्धता का ध्यान रखना चाहिए। इस अध्याय के प्रश्न-उत्तर पाठ को सरलता से समझने और परीक्षा की तैयारी करने में विद्यार्थियों की सहायता करेंगे।

Sanskrit Class 9 Chapter 6 Question Answer Sharada मनःपूतं समाचरेत्

Sanskrit Class 9 Chapter 6 Question Answer Sharada मनःपूतं समाचरेत्

अभ्यासाद् जायते सिद्धिः

१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत—

(क) लोकः कस्य आचरणम् अनुक्रोति?

उत्तरम्: लोकः श्रेष्ठस्य आचरणम् अनुकरोति।

(ख) कीदृशी वाणी वक्तव्या?

उत्तरम्: सत्यपूता वाणी वक्तव्या।

(ग) लक्ष्मीः कम् उपैति?

उत्तरम्: लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।

(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?

उत्तरम्: उत्तमजनाः कार्यं प्रारभ्य विघ्नैः प्रतिहन्यमानाः अपि कार्यं न परित्यजन्ति।

(ङ) धर्मस्य लक्षणानि कानि?

उत्तरम्: धर्मस्य दश लक्षणानि सन्ति—धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः च।

(च) सकलाः कलाः कस्मात् सिध्यन्ति?

उत्तरम्: सकलाः कलाः अभ्यासात् सिध्यन्ति, अभ्यासेन सर्वाः क्रियाः सफलाः भवन्ति।

(छ) सम्पदः कं वृण्वते?

उत्तरम्: सम्पदः विमृश्यकारिणं वृणते।

२. अधोलिखितेषु श्लोकेषु रिक्तस्थानानि पूरयत—

(क) ………………. परमापदां पदम्।

उत्तरम्: अविवेकः

(ख) सन्तः …………………… अन्यतरद् भजन्ते।

उत्तरम्: परीक्ष्य

(ग) दैवं निहत्य कुरु ………………… आत्मशक्त्या।

उत्तरम्: पौरुषम्

(घ) स यत् ……………….. कुरुते।

उत्तरम्: प्रमाणम्

(ङ) धीर्विद्या सत्यमक्रोधो ……………….. धर्मलक्षणम्।

उत्तरम्: दशकं

३. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत—

(क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते।

प्रश्नम्: कैः विघ्नभयेन कार्यं न प्रारभ्यते?

(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति।

प्रश्नम्: सकलाः कलाः कस्मात् सिध्यन्ति?

(ग) वस्त्रपूतं जलं पिबेत्।

प्रश्नम्: कीदृशं जलं पिबेत्?

(घ) लक्ष्मीः पौरुषु सिंहम् उपैति।

प्रश्नम्: लक्ष्मीः कम् उपैति?

(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते।

प्रश्नम्: के परीक्ष्य अन्यतरद् भजन्ते?

(च) क्रियां सहसा न विदधीत।

प्रश्नम्: कां सहसा न विदधीत?

४. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत—

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत्॥

(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम्?

उत्तरम्: प्रथमं क्रियापदं न्यसेत् अस्ति।

(ख) कं न्यसेत्?

उत्तरम्: पादं न्यसेत्।

(ग) कीदृशं पादं न्यसेत्?

उत्तरम्: दृष्टिपूतं पादं न्यसेत्।

(घ) द्वितीयं किं क्रियापदम् अस्ति?

उत्तरम्: द्वितीयं क्रियापदं पिबेत् अस्ति।

(ङ) किं पिबेत्?

उत्तरम्: जलम् पिबेत्।

(च) कीदृशं जलं पिबेत्?

उत्तरम्: वस्त्रपूतं जलम् पिबेत्।

(छ) तृतीयं किं क्रियापदम् अस्ति?

उत्तरम्: तृतीयं क्रियापदं वदेत् अस्ति।

(ज) कां वदेत्?

उत्तरम्: वाचं वदेत्।

(झ) कीदृशीं वाणीं वदेत्?

उत्तरम्: सत्यपूतां वाचं वदेत्।

(ञ) चतुर्थं किं क्रियापदम् अस्ति?

उत्तरम्: चतुर्थं क्रियापदं समाचरेत् अस्ति।

(ट) कथं समाचरेत्?

उत्तरम्: मनःपूतं समाचरेत्, अर्थात् शुद्धमनसा आचरणं करोतु।

५. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत—

बुद्धिःलक्ष्यंपुरुषस्यअभिप्रायंधीराःनूतनम्

(क) लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः ………………………. समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘दैवविधिः एव बलीयान्’ इति वदन्ति। ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव ………………………. । प्रयत्नं कृत्वा अपि यदि ………………………. न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।

उत्तरम्: पुरुषस्य, धीराः, लक्ष्यं

(ख) पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव ………………………. अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां ………………………. पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् ………………………. श्रुत्वा तदनुसारेण प्रवर्तन्ते।

उत्तरम्: नूतनम्, बुद्धिः, अभिप्रायं

६. श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत—

(क) सर्वाः ……………….. अभ्यासेन (सिध्यन्ति)। ……………….. कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) ……………….. (सिध्यति)। अभ्यासस्य ……………….. किम् (अस्ति)?

उत्तरम्: क्रियाः, सकलाः, अभ्यासात्, दुष्करम्

(ख) श्रेष्ठः यत् यत् ……………….. इतरः जनः तत्तत् एव (आचरति)। सः यत् ……………….. कुरुते, लोकः तत् ……………….. ।

उत्तरम्: आचरति, प्रमाणम्, अनुवर्तते

७. यथोचितं मेलनं कुरुत—

श्लोकांशःस्रोतोग्रन्थः
(क) पुराणमित्येव न साधु सर्वम्१. मनुस्मृतिः
(ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति२. पञ्चतन्त्रम्
(ग) यद्यदाचरति श्रेष्ठः३. नीतिशतकम्
(घ) धृतिः क्षमा दमोऽस्तेयम्४. मालविकाग्निमित्रम्
(ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः५. श्रीमद्भगवद्गीता

श्लोकांशःस्रोतोग्रन्थः
(क) पुराणमित्येव न साधु सर्वम्४. मालविकाग्निमित्रम्
(ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति३. नीतिशतकम्
(ग) यद्यदाचरति श्रेष्ठः५. श्रीमद्भगवद्गीता
(घ) धृतिः क्षमा दमोऽस्तेयम्१. मनुस्मृतिः
(ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः२. पञ्चतन्त्रम्

८. रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत—

यथा—यो बहून्यपि साधयेत्
……..बहूनि……. + …….अपि……..

(क) धृतिः क्षमा दमोऽस्तेयम्
……………….. + ………………..

उत्तरम्: दमः + अस्तेयम्

(ख) पुराणमित्येव न साधु सर्वम्।
……………….. + ……………….. + ………………..

उत्तरम्: पुराणम् + इति + एव

(ग) विघ्नैः पुनरपि प्रतिहन्यमानाः।
……………….. + ………………..

उत्तरम्: पुनः + अपि

(घ) प्रारभ्य चोत्तमजनाः न परित्यजन्ति।
……………….. + ……………….. + ………………..

उत्तरम्: च + उत्तमजनाः + परित्यजन्ति

(ङ) विघ्नविहता विरमन्ति मध्याः।
……………….. + ………………..

उत्तरम्: विघ्नैः + विहताः

(च) लोकस्तदनुवर्तते
……………….. + ……………….. + ………………..

उत्तरम्: लोकः + तत् + अनुवर्तते

(छ) सन्तः परीक्ष्यान्यतरद् भजन्ते
……………….. + ……………….. + ………………..

उत्तरम्: परीक्ष्य + अन्यतरत् + भजन्ते

९. अत्र कतिचन विग्रहवाक्यानि दत्तानि सन्ति। तेषां समस्तपदानि पाठात् चित्वा लिखत—

विग्रहवाक्यानिसमस्तपदानि
यथा—मनसा पूतं समाचरेत्……………मनःपूतम्…………….
(क) विघ्नैः विहताः (कार्यात्) विरमन्ति।………………………….
(ख) वस्त्रेण पूतं जलं पिबेत्।………………………….
(ग) पौरुषः सिंहः इव तम् उपैति लक्ष्मीः।………………………….
(घ) उत्तमाः जनाः न परित्यजन्ति।………………………….
(ङ) न विवेकः परमापदां पदम्।………………………….

उत्तरम्:

विग्रहवाक्यानिसमस्तपदानि
यथा—मनसा पूतं समाचरेत्……………मनःपूतम्…………….
(क) विघ्नैः विहताः (कार्यात्) विरमन्ति।विघ्नविहताः
(ख) वस्त्रेण पूतं जलं पिबेत्।वस्त्रपूतम्
(ग) पौरुषः सिंहः इव तम् उपैति लक्ष्मीः।पुरुषसिंहम्
(घ) उत्तमाः जनाः न परित्यजन्ति।उत्तमजनाः
(ङ) न विवेकः परमापदां पदम्।अविवेकः

Disclaimer: The content that is present on our website is based on the NCERT Class 9 Sanskrit शारदा textbook and is provided for educational purposes only. All the content and images have been taken from Sanskrit Class 9 NCERT Textbook Sharada and CBSE Support material. Images and content shown above are the property of individual organizations and are used here for reference purposes only. To make it easy to understand, some of the content and images are generated by AI and cross-checked by the teachers.

← Back to Class 9 Sanskrit Sharada

Leave a Comment