Class 1 Class 2 Class 3 Class 4 Class 5 Class 6 Class 7 Class 8

Sanskrit Class 9 Chapter 3 Question Answer Sharada आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।

← Back to Class 9 Sanskrit Sharada

Sanskrit Class 9 Chapter 3 Question Answer – आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः विद्यार्थियों को पाठ के प्रश्नों और उत्तरों को सरल एवं स्पष्ट भाषा में समझने में मदद करता है। इस अध्याय में सभी प्राणियों के प्रति समान भाव, दया, करुणा और मानवीय दृष्टिकोण का महत्व बताया गया है। यहाँ पाठ के आधार पर सभी प्रश्नों के उत्तर आसान भाषा में दिए गए हैं, ताकि विद्यार्थी अध्याय को अच्छी तरह समझ सकें और परीक्षा की तैयारी प्रभावी ढंग से कर सकें।

Sanskrit Class 9 Chapter 3 Question Answer Sharada आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।

Sanskrit Class 9 Chapter 3 Question Answer Sharada आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।

सर्वं शब्देन भासते

शब्दःअर्थःहिन्दीEnglishमातृभाषया अर्थं लिखत
अनुधावितवान् (अनु + √धाव् + क्तवतु, पुं.प्र.ए.व.)पृष्ठतःअधावत् पीछे दौड़ाChasedपीछे भागा
अनुपालितवान् (अनु + √पाल् + क्तवतु, पुं.प्र.ए.व.)अनुसरणम् अकरोत्अकरोत् पालन कियाFollowedनियम माना
अपहृत्य (अप + √हृ + ल्यप्, अव्ययम्)चोरयित्वाचुराकरHaving stolenचोरी करके
आविर्भूतवान् (आविः + √भू + क्तवतु, पुं.प्र.ए.व.)प्रत्यक्षीभूतःप्रकट हुआAppearedसामने आया
आलिङ्गनं कृतवन्तौ (√कृ + क्तवतु, पुं.प्र.द्वि.व.)आश्लिष्टौदोनों गले मिलेHuggedगले लगाया
ऋजुता (स्त्री.प्र.ए.व.)सरलतासीधापनSimplicityसरलता
करुणया (स्त्री.तृ.ए.व.)दययादया सेWith mercyदया करके
कायः (पुं.प्र.ए.व.)देहःशरीरBodyतन
घृतम् (नपुं.प्र.ए.व.)हविःघीClarified butterघी
दण्डितवन्तौ (√दण्ड् + क्तवतु, पुं.प्र.द्वि.व.)दण्डं दत्त्वन्तौदण्ड दियाPunishedसज़ा दी
नैवेद्यम् (नपुं.प्र.ए.व.)देवाय समर्पयितुं निर्मितःभोगOffering to Godदेवता को अर्पित भोजन
निकषा (अव्ययम्)समीपेपासNearनज़दीक
निमील्य (नि + √मील् + ल्यप्)निधायबंद करकेHaving closedआँखें मूँदकर
पाषाणखण्डम् (पुं.द्वि.ए.व.)शिलाखण्डम्पत्थर का टुकड़ाPiece of Stoneपत्थर का टुकड़ा
पुण्यश्लोकः (पुं.प्र.ए.व.)पुण्यः श्लोकः (चरितं) यस्य सःपवित्र चरित्रवालाVirtuous characterपुण्यवान
प्रजनित्री (स्त्री.प्र.ए.व.)जनयित्रीजनम देने वालीOne who gives birthजननी
ब्रह्मर्षीणाम् (पुं.ष.ब.व.)ब्रह्मज्ञानीनाम् ऋषीणाम्ब्रह्म को जानने वाले ऋषियों काOf Seers of Brahmanऋषियों का
बुभुक्षितः (पुं.प्र.ए.व.)क्षुधार्तःभूखाHungryभूखा
भक्षितवान् (√भक्ष् + क्तवतु, पुं.प्र.ए.व.)खादितवान्खायाAteखा लिया
मातुलः (पुं.प्र.ए.व.)मातुःभ्राता मामाMaternal uncleमामा
म्लाने (नपुं.सप्त.ए.व.)कान्तिहीनेकुम्हलायाWitheredफीका पड़ा
लङ्गुडम् (पुं.द्वि.ए.व.)दण्डम्लाठीStickडंडा
शिक्षाप्रदा (उपपदतत्पुरुषः, स्त्री.प्र.ए.व.) शिक्षां प्रददाति इतिसीख देने वालीWhich imparts educationशिक्षा देने वाली
सुहृत् (पुं.प्र.ए.व.)सखामित्रFriendदोस्त

अत्र इदम् अवधेयम्

उपपदविभक्तयः

उप इत्यस्य अर्थः सामीप्यम् इति। समीपस्थं पदम् आश्रित्य जायमाना विभक्तिः उपपदविभक्तिः इति कथ्यते।

(क) ‘प्रति’ इति शब्दस्य अर्थः अभिमुख्यम् इति। प्रति-शब्दयोगे द्वितीया विभक्तिः भवति। अतः प्रति-शब्दयोगे मन्दिर इति शब्दस्य द्वितीया।

  • यथा — नामदेवः प्रतिदिनं मन्दिरं प्रति गच्छति स्म।
  • बालः सदा मातरं प्रति धावति।

उत्तरम् — ‘प्रति’ इत्यस्य अर्थः अभिमुख्यम्। तस्य योगे द्वितीया विभक्तिः भवति। यथा — नामदेवः प्रतिदिनं मन्दिरं प्रति गच्छति स्म।

(ख) ‘विना’ इति पदस्य योगे द्वितीया, तृतीया पञ्चमी च इति विभक्तयः भवन्ति।

  • यथा — अहं कारणं विना शुनकं ताडितवान्।
  • अहं कारणेन विना शुनकं ताडितवान्।
  • अहं कारणात् विना शुनकं ताडितवान्।

उत्तरम् — ‘विना’ इत्यस्य प्रयोगे द्वितीया, तृतीया, पञ्चमी विभक्तयः भवन्ति। यथा — अहं कारणं विना शुनकं ताडितवान्।

(ग) ‘धिक्’ इति शब्दः निन्दावाचकः। धिक् इति शब्दस्य योगे द्वितीया विभक्तिः भवति।

  • यथा — धिक् शुनकम्।
  • धिक् दुर्जनम्।

उत्तरम् — ‘धिक्’ इति निन्दावाचकः शब्दः। तस्य योगे द्वितीया विभक्तिः भवति। यथा — धिक् शुनकम्।

(घ) ‘निकषा’ इति शब्दस्य अर्थः समीपम् इति। निकषा इति शब्दस्य योगे द्वितीया विभक्तिः भवति।

  • यथा — कपिलः मातामहीं निकषा आगतवान्।
  • केशवस्य गृहं पाठशालां निकषा अस्ति।

उत्तरम् — ‘निकषा’ इत्यस्य अर्थः समीपम्। तस्य योगे द्वितीया विभक्तिः भवति। यथा — कपिलः मातामहीं निकषा आगतवान्।

(ङ) ‘परितः’ इति शब्दस्य अर्थः परिवृत्य / सर्वस्मिन् पार्श्वे इति। परितः इति शब्दयोगे द्वितीया विभक्तिः भवति।

  • यथा — देवं परितः भक्ताः सन्ति।
  • शिक्षकं परितः छात्राः भवन्ति।

उत्तरम् — ‘परितः’ इत्यस्य अर्थः परिवृत्य। तस्य योगे द्वितीया विभक्तिः भवति। यथा — देवं परितः भक्ताः सन्ति।

(च) ‘सह, साकं, सार्धं, समम्’ इति शब्दानां योगे तृतीया विभक्तिः भवति।

  • यथा — माधवी कपिलेन सह भ्रमति।
  • जनकेन सह पुत्री क्रीडति।
  • त्वं मित्रेण साकं धावसि।
  • सः पित्रा सार्धम् आगच्छति।
  • रामः लक्ष्मणेन समं वनं गच्छति।
  • अहम् अनुजेन साकं ग्रामं गच्छामि।

उत्तरम् — एतेषां पदानां योगे तृतीया विभक्तिः भवति। यथा — माधवी कपिलेन सह भ्रमति।

(छ) ‘अलम्’ इति शब्दस्य योगेऽपि तृतीया विभक्तिः भवति।

  • यथा — अलं क्रीडया।
  • अलं विस्तरेण।
  • अलम् आलस्येन।
  • अलं कलहेन।
  • अलं क्रोधेन।

उत्तरम् — ‘अलम्’ इत्यस्य प्रयोगे तृतीया विभक्तिः भवति। यथा — अलं क्रीडया।

अभ्यासाद् जायते सिद्धिः

१. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत —

(क) मातामही कस्य कथां श्रावितवती ?

उत्तरम् — मातामही पुण्यश्लोकस्य नामदेवमहाराजस्य कथां श्रावितवती।

(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान् ?

उत्तरम् — नामदेवस्य गुरुः विसोबा नामदेवं अध्यापितवान् यत् ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु निवसति।

(ग) नामदेवः कया भावनया धावनं कृतवान् ?

उत्तरम् — नामदेवः करुणाभावनया धावनं कृतवान्।

(घ) बालकयोः मुखे किमर्थं म्लाने पञ्जाते ?

उत्तरम् — अपराधभावनया बालकयोः मुखे म्लाने संजाते।

(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ ?

उत्तरम् — तौ सङ्कल्पं कृतवन्तौ यत्—अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत् तथा च कस्यापि पीडां निवारयितुं प्रयतामहे।

(च) तं दृष्ट्वा पाषाणखण्डम् स्वीकृत्य मारयितुं धावितवन्तौ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः ?

उत्तरम् — ‘तम्’ इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः।

(छ) कपिलः माधवी च कुत्र गतवन्तौ ?

उत्तरम् — कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।

(ज) ‘मातामही तं प्रसङ्गं दृष्टवती, ततो आहूतवती च’। इति वाक्ये ‘ततौ’ इति शब्दः कस्मां विभक्तौ अस्ति ?

उत्तरम् — ‘तौ’ इति शब्दः द्वितीया विभक्तौ अस्ति।

२. अधोलिखितानि वाक्यानि भूतेन कालेन परिवर्त्य पुनः लिखत —

यथा — नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति ।
नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान् ।

(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति ।

उत्तरम् — नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।

(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति ।

उत्तरम् — नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।

(ग) गुरुः विठोबा तम् अध्यापयति ।

उत्तरम् — गुरुः विसोबा तम् अध्यापितवान्।

(घ) अहं शृणोमि ।

उत्तरम् — अहं श्रुतवान् / श्रुतवती।

(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।

उत्तरम् — सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।

(च) नामदेवः शुनकस्य पृष्ठे अनुधावति ।

उत्तरम् — नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।

३. अधोलिखितानि कथानि कः / का / कं / कां प्रति कथयति इति लिखत —

(कः / का – कं / कां प्रति)

यथा — हे देव ! शुष्कां रोटिकां न खादतु घृतमपि स्वीकरोतु।…………….…………….
(क) कथां श्रोतुम् इच्छतः वा ?…………….…………….
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।…………….…………….
(ग) किं देवेन सह अपि मित्रता सम्भवति ?…………….…………….
(घ) अतः तस्य सार्वात्मिकस्य ईश्वरस्य पूजनं कुरु।…………….…………….
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।…………….…………….
(च) धिक् शुनकम्।…………….…………….
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु ?…………….…………….
(ज) किं घृतपात्रम् आधृत्य ?…………….…………….
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति।…………….…………….
(ञ) उत्तीर्णः भवान् परीक्षाम्।…………….…………….

उत्तरम् —

यथा — हे देव ! शुष्कां रोटिकां न खादतु घृतमपि स्वीकरोतु।नामदेवःशुनकं प्रति
(क) कथां श्रोतुम् इच्छतः वा ?मातामहीकपिलं माधवीं च प्रति
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।माधवीमातामहीं प्रति
(ग) किं देवेन सह अपि मित्रता सम्भवति ?कपिलःमातामहीं प्रति
(घ) अतः तस्य सार्वात्मिकस्य ईश्वरस्य पूजनं कुरु।गुरुः विसोबानामदेवं प्रति
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।नामदेवःपाण्डुरङ्गं प्रति।
(च) धिक् शुनकम्।कपिलःमातामहीं प्रति
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु ?माधवीकपिलं प्रति
(ज) किं घृतपात्रम् आधृत्य ?कपिलः माधवी चमातामहीं प्रति
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति।कपिलःमातामहीं प्रति
(ञ) उत्तीर्णः भवान् परीक्षाम्।पाण्डुरङ्गःनामदेवं प्रति

४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —

यथा — पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत् ।
पाण्डुरङ्गः कस्य मित्रम् आसीत्?

(क) देवः नामदेवं परितः भवति स्म।

प्रश्नः भवति देवः कं परितः भवति स्म?

(ख) ईश्वरः सर्वेषु भूतेषु निवसति।

प्रश्नः भवति ईश्वरः केषु निवसति?

(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।

प्रश्नः भवति शुनकः मुखे कां धृत्वा धावितवान्?

(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।

प्रश्नः भवति शुनकस्य स्थाने कः आविर्भूतवान्?

(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।

प्रश्नः भवति आत्मवत् सर्वभूतेषु यः पश्यति सः कः?

५. घटनाक्रमानुसारं लिखत —

(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(च) नामदेवः मन्दिरं गतवान्।

उत्तरम् —

(च) नामदेवः मन्दिरं गतवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
(घ) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।

६. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत —

आगच्छन्तु, पायसं कुर्मः

आगच्छन्तु, पायसं कुर्मः। ………………….. (क्षीर) सह तण्डुलाः पक्वाः।
………………….. (शर्करा) विना कथं शक्यते। शीघ्रमेव ………………….. (आपण) प्रति गत्वा शर्कराम् आनयतु।
………………….. (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता।
………………….. (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता।
………………….. (मधुर) विना पायसं रुचिकरं न भवति। अधुना
………………….. (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक्
………………….. (अन्ये मधुरपदार्थाः) इति एकः वदति, …………………..
(तत्) विना जीवनम् अपूर्णम् इति अपरः। ………………….. (पायस) सह एव
भोजनं परमम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।

उत्तरम् —

आगच्छन्तु, पायसं कुर्मः।
आगच्छन्तु, पायसं कुर्मः। क्षीरेण सह तण्डुलाः पक्वाः।
शर्करां विना कथं शक्यते। शीघ्रमेव आपणं प्रति गत्वा शर्कराम् आनयतु।
आपणं निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता।
शर्करां परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता।
मधुरं विना पायसं रुचिकरं न भवति। अधुना
पायसं परितः बालक-बालिकावृन्दं तिष्ठति। धिक्
अन्यान् मधुरपदार्थान् इति एकः वदति, तेन विना जीवनम् अपूर्णम् इति अपरः।
पायसेन सह एव भोजनं परमम् इति अन्यः।
तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।

७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत —

किञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम्अ ददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन जलेन सर्वदा कृषिम् अकरोत्। कालान्तरे अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपूजयन्। एकवारं कश्चित्प रिवारः नद्यां मालिन्यानि अक्षिपत्। क्रमशः अन्ये अपि अक्षिपन्। तेन नदी
मलिना अभवत्, मीनाः अम्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम्अ कुर्वन्। सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम्अ पूजयन् वृक्षरोपणं च अकुर्वन्।

उत्तरम् —

किञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम् दत्तवती। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान्। कालान्तरे अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः। महिलाः पर्वसमये नदीम् पूजितवन्त्यः। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान्। क्रमशः अन्ये अपि क्षिप्तवन्तः। तेन नदी मलिना भूतवती, मीनाः मृतवन्तः। स्त्रियः रोगैः पीडिताः भूतवत्यः। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यं कृतवत्यः। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः। पुनः नदी स्वच्छा भूतवती निर्मलं जलं च दत्तवती। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः वृक्षरोपणं च कृतवन्तः

८. एतेषां समस्तपदानि पाठात् चित्वा लिखत —

यथा — महान् आत्मा, तेषाम् ……………………………………….

(क) घृतस्य पात्रम्, तत् ……………………………………….

उत्तरम् — घृतपात्रम्

(ख) पाषाणस्य खण्डः, तम् ……………………………………….

उत्तरम् — पाषाणखण्डम्

(ग) प्रियः सुहृत् ……………………………………….

उत्तरम् — प्रियसखा

(घ) उदरे वेदना ……………………………………….

उत्तरम् — उदरवेदना

(ङ) स्वीयः व्यवहारः ……………………………………….

उत्तरम् — स्वव्यवहारः

(च) जीवनस्य मूल्यानि ……………………………………….

उत्तरम् — जीवनमूल्यानि

(छ) मातुलस्य गृहम्, तत् ……………………………………….

उत्तरम् — मातुलगृहम्

(ज) नरेषु रत्नानि इव, तेषाम् ……………………………………….

उत्तरम् — नररत्नानाम्

(झ) स्वीयं कर्तृत्वम्, तेन ……………………………………….

उत्तरम् — स्वकर्तृत्वेन

(ञ) अपराधस्य भावना, तया ……………………………………….

उत्तरम् — अपराधभावनया

(ट) गुरोः उपदेशः, तम् ……………………………………….

उत्तरम् — गुरूपदेशम्

(ठ) दिने दिने ……………………………………….

उत्तरम् — प्रतिदिनम्

(ड) राजा ऋषिः इव, तेषाम् ……………………………………….

उत्तरम् — राजर्षीणाम्

स्वाध्यायान् मा प्रमदः

१. ‘क्तवतु’ – प्रत्ययान्तशब्दानां पुंलिङ्गे रूपाणि वयं पश्यामः —

विभक्तयःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागतवान्गतवन्तौगतवन्तः
द्वितीयागतवन्तम्गतवन्तौगतवतः
तृतीयागतवतागतवद्भ्याम्गतवद्भिः
चतुर्थीगतवतेगतवद्भ्याम्गतवद्भ्यः
पञ्चमीगतवतःगतवद्भ्याम्गतवद्भ्यः
षष्ठीगतवतःगतवतोःगतवताम्
सप्तमीगतवतिगतवतोःगतवत्सु

२. ‘क्तवतु’ – प्रत्ययान्तशब्दानां स्त्रीलिङ्गे रूपाणि वयं पश्यामः —

विभक्तयःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागतवतीगतवत्यौगतवत्यः
द्वितीयागतवतीम्गतवत्यौगतवतीः
तृतीयागतवत्यागतवतीभ्याम्गतवतीभिः
चतुर्थीगतवत्यैगतवतीभ्याम्गतवतीभ्यः
पञ्चमीगतवत्याःगतवतीभ्याम्गतवतीभ्यः
षष्ठीगतवत्याःगतवत्योःगतवतीनाम्
सप्तमीगतवत्याम्गतवत्योःगतवतीषु

३. ‘क्तवतु’ – प्रत्ययान्तशब्दानां नपुंसकलिङ्गे रूपाणि वयं पश्यामः —

विभक्तयःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागतवत्गतवतीगतवन्ति
द्वितीयागतवत्गतवतीगतवन्ति
तृतीयागतवतागतवद्भ्याम्गतवद्भिः
चतुर्थीगतवतेगतवद्भ्याम्गतवद्भ्यः
पञ्चमीगतवतःगतवद्भ्याम्गतवद्भ्यः
षष्ठीगतवतःगतवतोःगतवताम्
सप्तमीगतवतिगतवतोःगतवत्सु

पाण्डुरङ्गः

पाण्डुरङ्गस्य एव विठ्ठलः, विठोबा, पण्डरीनाथः, पिठुमाऊली च इत्यादीनि बहूनि नामानि सन्ति। महाराष्ट्रस्य सोलापुरजनपदे पण्डरपुरम् इति प्रसिद्धं तीर्थक्षेत्रं वर्तते। तच्च चन्द्रभागानद्याः तीरे विराजमानमस्ति। वारकरीसम्प्रदायस्य आराध्यं दैवतम् अस्ति पाण्डुरङ्गः। सः इष्टिकायां समचरणः स्थितः वर्तते। हस्तौ कट्यां संस्थाप्य भक्तानां रक्षणार्थम् अहं सर्वदा कटीबद्धः अस्मि इति सः भक्तान् सूचयति।

विषयप्रबोधनम्

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥

अन्वयः — हे देव! नैवेद्यं गृह्यताम्। शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्। भक्तिं हि अचलां मे कुरु। ईप्सितं वरं मे देहि। परत्र च परां गतिं देहि।

यस्तु क्रियावान् मनुजः स विद्वान्

१. स्वप्रदेशे विद्यमानानां पवित्राणां महात्मनां चित्राणि सङ्कलयत। तेषां विषयकं विवरणं पञ्चषैः वाक्यैः च लिखत। उदाहरणम् —
छत्तीसगढप्रान्तस्य गिरौदपुरी-ग्रामे गुरु-घासीदासमहाराजस्य जन्म जातम्। ‘मनखे मनखे एक समान’ अर्थात् सर्वे मनुष्याः समानाः सन्ति इति तस्य उपदेशः आसीत्। समाजस्य विषमतां दूरीकृत्य समानताम् आनेतुं घासीदासः महाराजः महान् प्रयत्नं कृतवान्। अस्माभिः न केवलं सर्वैः मनुष्यैः अपि तु सर्वैः जीवैः सह अपि वात्सल्यतया व्यवहरणीयम् इति सः उपदिशति स्म। सतनामी इति सम्प्रदायस्य सः संस्थापकः आसीत्।

उत्तरम् — संत तुकाराम महाराज

  • महाराष्ट्रस्य पुणे-जनपदस्य देहू-ग्रामे सन्त तुकाराममहाराजस्य जन्म अभवत्।
  • सः महान् भक्तः समाजसुधारकश्च आसीत्।
  • सः जनान् भक्तिमार्गे प्रेम्णा सत्येन च चलितुं प्रेरितवान्।
  • तस्य अभङ्गाः जनानां मध्ये बहुप्रसिद्धाः सन्ति।
  • तेन समाजे समानतायाः मानवतायाः च भावः प्रसारितः।

२. पाठे आगतानि क्तवतुप्रत्यययुक्तानि वाक्यानि सङ्गृह्य तादृशानि अन्यानि वाक्यानि लिखत।

यथा — कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
रामः लक्ष्मणः च सीतया सह वनं गतवन्तौ।

उत्तरम् —

  • कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
  • नामदेवः घृतपात्रम् आधृत्य शुनकम् अनुधावितवान्।
  • शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
  • नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
  • नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
  • पाण्डुरङ्गः शुनकस्य स्थाने आविर्भूतवान्।
  • नामदेवः गुरोः उपदेशं श्रुतवान्।
  • कपिलः माधवी च मातामह्याः कथां श्रुतवन्तौ।

३. गुलाबराव-महाराजः सन्तकवि-भीमभोई चेति एतयोः महापुरुषयोः विषये पञ्चभिः वाक्यैः दशभिः वाक्यैः वा वर्णयित्वा शिक्षकान्द र्शयत।

उत्तरम् —

गुलाबराव-महाराजः

  • गुलाबराव-महाराजः महाराष्ट्रस्य प्रसिद्धः सन्तः आसीत्।
  • सः महान् भक्तः दार्शनिकश्च आसीत्।
  • सः आध्यात्मिकज्ञानस्य प्रचारं कृतवान्।
  • तेन जनानां भक्तेः ज्ञानस्य च महत्त्वं बोधितम्।
  • तस्य जीवनं भक्तेः ज्ञानस्य च प्रेरणां ददाति।

सन्तकवि-भीमभोई

  • भीमभोई ओडिशाप्रदेशस्य प्रसिद्धः सन्तकविः आसीत्।
  • सः महान् भक्तः कविश्च आसीत्।
  • तस्य काव्येषु मानवतायाः करुणायाश्च भावाः दृश्यन्ते।
  • सः दुःखितानां जनानां प्रति सहानुभूतिं प्रदर्शितवान्।
  • तस्य रचनाः समाजकल्याणस्य मानवसेवायाश्च प्रेरणां ददति।

Disclaimer: The content that is present on our website is based on the NCERT Class 9 Sanskrit शारदा textbook and is provided for educational purposes only. All the content and images have been taken from Sanskrit Class 9 NCERT Textbook Sharada and CBSE Support material. Images and content shown above are the property of individual organizations and are used here for reference purposes only. To make it easy to understand, some of the content and images are generated by AI and cross-checked by the teachers.

← Back to Class 9 Sanskrit Sharada

Leave a Comment